Chapter 1
Verse 1.26
यतः अपदादिविधिशब्दस्य पदान्तविधिपरत्वाभावे माषकुंभवापेन चतुरंगयोगनेत्यादौ पदव्यवायेपीति निषेधानुपपत्तिः । कुंभशब्दस्य प्रत्ययलक्षणनिषेधेन पदत्वा-
संभवात् उत्तरपदसंबन्धिकार्ये एव अयन्निषेध इत्यङ्गीकृत्य उक्तानुपपत्तिवारणे च भवन्मतेऽपि प्रागुक्तस्थले ङमुट्प्रसंग इति मण्डूकप्लुत्याश्रयणमावश्यकमेव । तथाच नञिवपरिभाषाबाधस्यान्याय्यतया पदान्तविधिपरत्वमेवापदादिविधिशब्दस्याश्रयणीयमिति
॥२२॥