Chapter 1
Verse 1.27
नच पदान्तविधिपरत्वाश्रयणेऽपि पूर्वदण्डिप्रिय इत्यत्र नलोपानुपपत्तिपरिहाराय मध्यमपदातिरिक्तस्यैव अनेन प्रत्ययलक्षणनिषेध इत्याश्रयणीयम् । मध्यमत्वञ्च पूर्वपदोत्तरत्वे सति उत्तरपदपूर्वत्वम्। इत्थंच माषकुंभवापेनेत्यादौ दर्शितानुपपत्तिविरहात् अपदादिविधि- शब्दस्य पदादिविधिभिन्नसर्वसंग्राहकत्वमेव युक्तम् । पदान्तविधिपरत्वे प्रागुक्तरीत्या मण्डूकप्लुत्याश्रयणप्रसंगादिति वाच्यम् ॥ २३ ॥