Śrīkoṣa
Chapter 1

Verse 1.28

तद्धितार्थेति समासोत्तरपदातिरिक्तस्यैवानेन निषेध इत्याश्रयणीयतया माषकुंभवा- पेनेत्यादावुक्तानुपपत्तिपरिहाराय पदान्तविधिपरताया
आवश्यकत्वात् । तथाहि- "परमवाचिवासिदधिसेचिशय" इत्यादौ शयवासवासिष्वित्यलुक्समासे कुत्वादिप्रसंगः दर्शितमध्यमपदत्वसत्त्वेन प्रत्ययलक्षणनिषेधात् । तद्धितार्थेतिसमासोत्तरपदातिरिक्तस्यैव निषेध इति स्वीकारे तु नायं दोषः इहापि प्रत्ययलक्षनिषेधात्, अतस्तथैवांगीकरणीयमिति ॥ २४ ॥