Chapter 1
Verse 1.29
नचैवंसति पञ्चगवधन इत्यादा "वेङः पदान्तादती "ति पूर्वरूपापत्तिः गोशब्दस्य तद्धितार्थेतिसमासोत्तरपदरूपतया प्रत्ययलक्षणानिषेधात् । यदिच एङः पदन्तादित्यत्र पदे अन्तः पदान्त इत्येव समासः अङ्गीकरणीयः अन्यथा मधुशब्दादपत्यार्थप्रत्ययस्य तद्राजस्येव बहुत्वे लुकि जसिचेति गुणे अन्तर्वर्तिविभक्त्या पदत्वात् मधव इत्यत्र पूर्वरूपापत्तेः । तथाच न पञ्चगवधने दोष इति विभाव्यते । तदा पञ्चर्चधन इत्यत्र कुत्वप्रसंगः ऋक्च्छब्दस्य तद्धितार्थेति- समासोत्तरपदरूपस्य प्रत्ययलक्षणानिषेधात् । अत उत्तरपदाव्यवहितपूर्वभिन्नस्यैवानेन निषेध इत्याश्रयणीयं तथासति समासान्तेन व्यवधानात् न पञ्चर्चधने दोषः । परमवाचिवासीत्यादौ तु विभक्त्या व्यवधानान्न दोषः, इत्थंच माषकुंभवापेनेत्यादौ दर्शितानुपपत्त्यनवतारात् प्रागु- क्तरीत्या मण्डूकप्लुत्याश्रयणगौरवसंपादकं पदान्तविधिपरत्वमनुचितमेवेति वाच्यम् ॥२५॥