Chapter 1
Verse 1.3
द्वितीये च नारम् अयनं यस्येत्यादिकया उपबृंहणदर्शितव्युत्पत्त्या वा कुदृष्टिकल्पितव्युत्पत्त्यन्तरेण वा । नान्त्यः, “इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् बिभेत्यल्प श्रुताद्वेदो मामयं प्रतरिष्यती” ति शास्त्रविरोधात् । नाद्यः, तादृशव्युत्पत्त्या नारायण- शब्दस्य शिवपरत्वे णत्वानुपपत्त्या साधुत्वासंभवात् तादृशव्युत्पत्त्यधीनयदर्थबोधेच्छया उच्चरितस्य यस्य शब्दस्य साधुत्वविरहः तादृशव्युत्पत्त्यधीनतदर्थबोधौपयिकमीश्वरतात्पर्यम् तत्र शब्देनेति हि नियमः सर्वसंप्रतिपन्नः । तथाच नारम् अयनं यस्येत्यादिव्युत्पत्त्यधीनशिवबोधेच्छया उच्चरितस्य नारायणशब्दस्य साधुत्वविरहात् तादृशव्युत्पत्त्यधीनशिवबोधौपयिकमीश्वर- तात्पर्यं न नारायणशब्दे संभवतीति कारणवाक्यघटकनारायणशब्दात् न शिवबोधसंभवः वैदिकवाक्यार्थबोधे ईश्वरतात्पर्यस्यैव प्रयोजकत्वात् । तथाच नारम् अयनं यस्येत्यादि - व्युत्पत्त्यधीनशिवबोधेच्छया उच्चरितस्य नारायणशब्दस्य साधुत्वाभावसिद्धावेव समीहित- सिद्धिरिति पर्यवसानात् तादृशशब्दस्य साधुत्वाभाव एव इह साधनीयः ॥