Śrīkoṣa
Chapter 1

Verse 1.30

पदान्तविधिपरत्वानभ्युपगमे माषकुंभवापेनेत्यत्र णत्वनिषेधानुपपत्तिप्रसंगात्।
तथाहि माषशब्दात् अज्ञाताद्यर्थककप्रत्ययेन घटिते तत्र कुंभशब्दस्य प्रत्ययलक्षणमन्तरा णत्वनिषेधो दुरुपपादः तथाच कप्रत्ययेन व्यवधानादुत्तरपदाव्यवहितपूर्वभिन्नतया तस्य प्रत्ययलक्षणनिषेधप्रसंगवारणाय अपदादिविधिशब्दस्य पदान्तविधिपरत्वमावश्यकमेवेति ॥ २६ ॥