Chapter 1
Verse 1.31
नच पदव्यवायेपीत्यस्यातद्धित इति वार्तिकैकवाक्यतया णत्वाश्रयातिरिक्ततद्धितभिन्न- परकपदव्यवधाने णत्वन्नेति वाक्यार्थः । णत्वाश्रयातिरिक्तेतिकरणात् रम्यविणेत्यादौ णत्वाश्रयविभक्तिपरकपदव्यवधानेऽपि न दोषः । इत्थंच माषकुंभवापेनेत्यत्र कुंभशब्दस्य
तद्धितपरकतया णत्वनिषेधाप्रवृत्त्या क्षुभ्नादिपाठेनैव तस्य सर्वैरपि वारणीयतया न दोष इति वाच्यम् ॥ २७ ॥