Chapter 1
Verse 1.32
अतद्धित इत्यत्र तस्मिन्निति परिभाषोपस्थिताव्यवधानांशग्रहणेनैव उपपत्त्या क्षुभ्नादित्वस्य अकल्पनीयत्वात्, कुंभपदस्य वापशब्दपरकत्वसंभवात् । निमित्तोत्तरं यत्पदं तदुत्तरं यत् तद्धितभिन्नं तदुत्तरस्य णत्वन्न स्यादिति तु निष्कर्षः । इत्थञ्च माषकुंभवापेनेत्यत्र दर्शितनिषेधोपपत्तये पदान्तविधिपरत्वमावश्यकमेवेति ॥ २८ ॥