Chapter 1
Verse 1.33
नचैवं सति परमगिरावित्यादौ र्वोरुपधाया इति दीर्घप्रसङ्गः, तस्य पदान्तविधित्व - विरहेण प्रत्ययलक्षणनिषेधाप्रवृत्तेः अतः अपदादिविधिशब्दस्य पदादिविधिभिन्नसर्व- संग्राहकत्वमावश्यकम्। माषकुंभवापेनेत्यादौ दर्शितानुपपत्तिस्तु उत्तरपदसंबन्धिकार्य एव अनेन प्रत्ययलक्षणनिषेध इत्याश्रित्य परिहरणीया । इत्थञ्च णत्वविधावपि अनेन प्रत्ययलक्षणनिषेधसिद्धिरिति वाच्यम् ॥ २९ ॥