Chapter 1
Verse 1.34
यतः उत्तरपदसंबन्धिकार्य एव अनेन प्रत्ययलक्षणनिषेध इत्यङ्गीकारेऽपि परम- युवयोगिनेत्यत्र णत्वनिषेधानुपपत्तिः तस्य उत्तरपदसंबन्धित्वानपायात् । अत उत्तरपदनिष्ठं यत्पदत्वं तत्प्रयुक्तः तत्समानाधिकरणश्च योऽयमपदादिविधिः तत्रैव निषेध इत्याश्रयणीयम्। ततश्च दर्शितस्थले णत्वनिषेधस्य युवशब्दवृत्तिपदत्वप्रयुक्तत्वेऽपि तत्समानाधिकरणत्व- विरहान्न दोषः । प्रागुक्तकुत्वादिसाधारण्यानुपपत्तिस्तु तादृशप्रयुक्तत्वसंभावनाविषयत्व- विवक्षया परिहरणीया, तावत्पर्यन्तस्य वार्तिकेनालाभेऽपि गत्यन्तरविरहात्तथैव विवक्षणीयम् । इत्थञ्च णत्वविधावुक्तवार्तिकप्रवृत्तिः नोपपद्यत एवेति ॥ ३० ॥