Śrīkoṣa
Chapter 1

Verse 1.35

नचैवंसति परमविदुषेत्यादौ षत्वानुपपत्तिः तस्य उत्तरपदनिष्ठपदत्वसामानाधिकरण्या- संभवेन तत्र प्रत्ययलक्षणानिषेधात् । अतः अपदादिविधौ पदत्वसामानाधिकरण्यादि- विशेषणनिवेशो नोपपद्यते। परमयुवयोगिनेत्यादौ दर्शितानुपपत्तिस्तु कार्यभाज उत्तरपदस्य अनेन प्रत्ययलक्षणनिषेध इत्याश्रित्य परिहरणीया, तथासति युवशब्दस्य कार्यभाक्त्वविरहेण पदत्वाविघातात्। तथाच णत्वविधावपि वार्तिकप्रवृत्तिरव्याहतैवेति वाच्यम् ॥ ३१॥