Chapter 1
Verse 1.36
एवमपि पदे व्यवाय इति सप्तमीसमासपक्षे अपदादिविधिपदस्य पदान्तत्वप्रयुक्त- विधिपरताया आवश्यकतया णत्वविधौ वार्तिकप्रवृत्त्यसंभवात्, तथाहि - आर्द्रगोमयेण शुष्कगोमयेणेत्यत्र पदव्यवायेऽपीतिनिषेधवारणाय अतद्धित इति वक्तव्यमित्युक्तं वार्तिक-
कृता । भाष्यकृता तु तद्वचनप्रत्याचिख्यासया पदे व्यवाय इति सप्तमीसमासः समाश्रितः ।
तत्र व्यवधानं प्रत्यासत्त्या पदकृतमेव ग्राह्यं तेन चतुर्बङ्गेणेत्यत्र पदपरकबहुच्प्रत्ययेन व्यवधानेऽपि न दोषः । पदपरकं यत्पदं तेन व्यवधाने णत्वन्नेति तु निष्कर्षः । तथाच आद्रगोमयेणेत्यादौ तादृशव्यवधानाभावात् नानुपपत्तिः । इत्थञ्च रम्ययुवयोगिनेत्यत्र कार्यभाजः योगिन्नित्युत्तरपदस्य प्रत्ययलक्षणनिषेधे पदपरकपदव्यवधानविरहात् णत्वनिषेधानुपपत्तिप्रसंगः। अतः तद्वारणाय पदान्तत्वप्रयुक्तविधिपरत्वमेव अपदादिविधिशब्दस्य समाश्रयणीयम् । तथासति णत्वनिषेधस्य पदान्तत्वाप्रयुक्ततया प्रत्ययलक्षणनिषेधाप्रवृत्तौ योगिन्नित्यस्य पदत्वसंभवात् न दोषः । स्वघटितपदघटकवर्णनिरू- पितपूर्वत्वतादृशवर्णनिरूपितोत्तरत्वोभयवदवृत्तिधर्मप्रयुक्तविधित्वेन
सादृश्यादरणे धप्यदादिविधिशब्दस्य पदान्तत्वप्रयुक्तविधिपरत्वमपि संभवतीति ॥ ३२ ॥