Chapter 1
Verse 1.37
नच पदव्यवायेपि इत्यत्र पदशब्दः पदत्वयोग्यपर इत्यवश्यमाश्रयणीयम् अन्यथा माषकुंभवापिनेत्यत्र गतिकारकोपपदानां कृद्भिःसह समासवचनं प्राक्सुबुत्पत्तेरिति वापिन्नित्यस्य | सुबुत्पत्तेः प्रागेव समासेन पदत्वासंभवात् णत्वनिषेधानुपपत्तेः तथाच प्रागुक्त उक्तरीत्यैव
णत्वनिषेधोपपत्त्या पदान्तत्वप्रयुक्तविधिपरत्वाश्रयणमनावश्यकमेवेति पत्वविधौ वार्तिकप्रवृत्तिः अव्याहतैवेति वाच्यम् ॥ ३३ ॥