Śrīkoṣa
Chapter 1

Verse 1.38

गतिकारकेति परिभाषाया अनित्यतया वापिन्नित्यत्य सुबुत्पत्त्यनन्तरमेव समासा- ङ्गीकारेण सामञ्जस्ये पदशब्दस्य पदत्वयोग्यलाक्षणिकतायां मानाभावेन अपदादि- विधिशब्दस्य परिभाषानुरोध्युक्तार्थपरताया आवश्यकतया णत्वविधौ वार्तिकप्रवृत्त्य-
संभवात्। गतिकारकेति परिभाषाया अनित्यत्वञ्च उपपदमतिङिति सूत्रे कैय्यटे स्पष्टम्, तत्र हि "कर्तृकरणे कृता बहुलमि"ति बहुलग्रहणात् गतिकारकेति परिभाषाया अनित्यत्वं ज्ञाप्यते तेन धनक्रीतादिसिद्धिरित्युक्तम् ॥ ३४ ॥