Chapter 1
Verse 1.4
तत्रेयं विप्रतिपत्तिः- नारम् अयनं यस्येत्यादिव्युत्पत्त्यधीनशिवबोधेच्छया उच्चरितो नारायणशब्दः साधु र्नवेति । तत्र विधिकोटिः शैवानां, निषेधकोटिः औपनिषदानां। अत्र उच्चरितान्तस्य पक्षविशेषणस्य अनुपादाने सामानाधिकरण्येन साध्यसिद्धेरुद्देश्यतायां भगवत्परनारायणशब्दे अंशतस्सिद्धसाधनात् निषेधकोटेश्च अंशतो बाधः । अवच्छेदका -
वच्छेदेन तथात्वे घटादिबोधेच्छया उच्चरिते नारायणशब्दे अंशतो बाधः, निषेधकोटेश्च तत्रैव
सिद्धसाधनम् अतः तदुपादानम् । लक्षणया कुदृष्टिकल्पितव्युत्पत्त्यन्तरेण वा शिवपरस्य नारायणशब्दस्य कथञ्चित् साधुत्वसंभवात् सिद्धसाधनादिवारणायाधीनान्तं बोधविशेषणम् । साधुत्वं च गाव्यादिव्यावृत्तः गवादिशब्दनिष्ठः “साधूनेव प्रयुञ्जीत नासाधूनि ”ति नियमनिर्वाहकः “एकः शब्दः सम्यक् ज्ञातः सुष्ठु प्रयुक्तः स्वर्गे लोके कामधुग्भवती”ति श्रुतौ पुण्यविशेषजनकतावच्छेदकतया उपात्तो व्याकरणैकसमधिगम्यो धर्मविशेषः । स च जातिः . अखण्डोपाधिः, कार्यविशेषानुकूलशक्तिविशेषो वा यथामतमनुसन्धेयः॥