Śrīkoṣa
Chapter 1

Verse 1.41

नच गंधर्वगानादिषु सुबुत्पत्त्यनन्तरमेव समास इत्यङ्गीक्रियते दर्शितपरिभाषाया अनित्यत्वात् धनक्रीतादाविवात्रापि लक्ष्यानुरोधेनाप्रवृत्तेः । तथाच एतावतैव तत्र णत्ववारणे सामानपद्यशरीरे पदत्वयोग्यत्वनिवेशनमनुचितमेव, नारायणशब्दे तु तादृशपरिभाषाया अप्रवृत्तौ मानाभावेन तत्पुरुषसमासे णत्वं सूपपादमेवेति वाच्यम् ॥३७ ॥