Śrīkoṣa
Chapter 1

Verse 1.42

नरसंबन्ध्यधिकरणेषु वस्त्वन्तरेष्वपि नारायणशब्दस्य णत्वघटितस्य साधुताप्रसङ्ग- परिहाराय तत्पुरुषनारायणशब्देऽपि सुबुत्पत्त्यनन्तरमेव समासस्याश्रयणीयत्वात् । किञ्च निमित्तानधिकरणनिमित्तिमत्पदाघटितत्वस्य सामानपद्यरूपत्वे "वाहनमाहितादिति" सूत्र- वैय्यर्थ्यम्। इक्षुवाहणादिषु सुबुत्पत्तेः प्रागेव समासात् सामानपद्योपपत्त्या णत्वोपपत्तेः । एवं "अग्रग्रामाभ्यामि"ति वार्तिकस्यापि वैय्यर्थ्यम्, अग्रण्यादेरुक्तरीत्यैव सिद्धेः । अतो निमित्तानधिकरणनिमित्तिमत्पदत्वयोग्याघटितत्वमेव सामानपद्यमिति स्वीकरणीयं तथाच तत्पुरुषसमासेऽपि णत्वं दुर्घटमेवेति ॥ ३८॥