Śrīkoṣa
Chapter 1

Verse 1.43

नच तत्पुरुषे णत्वमुपपद्यत एव सुबुत्पत्तेः प्राक्समासेन पदत्वघटितसामानपद्योपपत्तेः । यत्तु -नरसंबन्ध्यधिकरणेषु वस्त्वन्तरेष्वपि नारायणशब्दस्य णत्वघटितस्य साधुताप्रसङ्ग इति । तन्न - लक्ष्यानुरोधन वस्त्वन्तरपरत्वे सुबुत्पत्त्यनन्तरमेव समासाङ्गीकारेण सामानपद्या- संभवात्। यदपि वाहनमाहितादिति सूत्रस्य अग्रग्रामाभ्यां इति वार्तिकस्य च वैय्यर्थ्यमिति । तदपि न नियमार्थतया चारितार्थ्यासंभवात् । तथाहि - वाहनमाहितादिति सूत्रस्य वाहननकारस्य यदि णत्वं तर्हि आहितात्परस्यैवेत्येवंविधनियमपरतया उष्ट्रवाहनादिव्यावृत्तिफलकत्वं । अन्यथा हि उष्ट्रस्य वाहनमिति कर्तरि षष्ठ्यन्तेन समासे सुबुत्पत्तेः प्रागेव समासावश्यंभावेन पदत्वघटितसामानपद्याक्षतेः, अट्कुप्वाङित्यनेन णत्वप्रसङ्गः । एवं अग्रग्रामाभ्यां इति वार्तिकस्यापि नियमपरत्वं बोध्यमिति अतो न कश्चिद्दोष इति वाच्यम् ॥ ३९ ॥