Śrīkoṣa
Chapter 1

Verse 1.44

गतिकारकेति परिभाषाया नित्यत्वस्यैव आवश्यकत्वेन वस्त्वन्तरे नारायण- शब्दस्य णत्वापत्तेः दुर्वारत्वात् । तथाहि - उक्तपरिभाषाया अनित्यत्वे वाहनमाहितादिति सूत्रवैय्यर्थ्यप्रसंगः, नहि तस्य इक्षुवाहणादौ विध्यर्थत्वसंभवः, सुबुत्पत्तेः प्रागेव समासेन पदत्वघटितसामानपद्योपपत्त्या अट्कुप्वाङित्यनेनैव णत्वसिद्धेः । नाप्युष्ट्रवाहनादिव्यावृत्ति- फलकदर्शितनियमपरत्वसंभवः । तत्र लक्ष्यानुरोधेन सुबुत्पत्त्यनन्तरमेव समासाङ्गीकारेण णत्वाप्रसक्तेः। एवमुक्तपरिभाषाया अनित्यत्वे दधिसेचावित्यादौ उपपदसमासे सात्पदाद्यो- रिति निषेधोपपत्तये भाष्ये पदादादिरति पञ्चमीसमासाश्रयणमपि अनुपपन्नं स्यात्, तत्र सुबुत्पत्त्यनन्तरसमासेनैव इष्टसिद्धेः । अत उक्तपरिभाषा नित्यैव धनक्रीतादिस्त्व- जादित्वाङ्गीकारेण साधनीयः । यद्यपि वार्तिककृन्मते उक्तपरिभाषायाः अनित्यत्वमेव अन्यथा उत्तरपदत्वे चेति शर्तिके अपदादिविधावित्यभिधानवैय्यर्थ्यप्रसङ्गात्। दधिसेचावित्यादौ सात्पदा
क्षुमीसमासावश्यकतयैव षत्वनिषेधोपपत्तेः । तथापि नदोषः समानपद इत्यस्य ज्याश्रुतार्थकत्वमङ्गीकृत्य पूर्वपदादित्यस्य नियमपरतायाः तैरङ्गीकारात्। नियमश्च प्रेमित्तानधिकरणपदत्वयोग्यप्रवृत्ते र्नस्य यदि णत्वं तर्हि संज्ञायामेवेत्येवंविध इति न । वलयौगिकनारायणशब्दस्य णत्वसंभव इति स्पष्टं अस्मदीयपरमुखचपेटिकायाम् । भाष्यकृतान्तु प्रागुक्तरीत्या उक्तपरिभाषाया नित्यत्वमेव सम्मतमिति तदभिप्रेतम्। प्रागुक्तसामानपद्यं यदि पदत्वघटितं तदा वस्त्वन्तरपरनारायणशब्दस्य णत्वप्रसंगो दुर्वारः। वाहनमाहितादिति सूत्रस्य प्रागुक्तनियमपरत्वे गौरवं, गंधर्वगानादीनां क्षुभ्नादित्वकल्पना- गौरवं च प्रसज्यत इति पदत्वयोग्यताघटितमेव तदादरणीयमिति न तत्पुरुषनारायणशब्दस्यापि
शिवपरत्वे णत्वोपपत्तिरिति ॥ ४० ॥