Śrīkoṣa
Chapter 1

Verse 1.45

नच पदत्वयोग्यत्वं दुर्वचम् । यत्तु विभक्तीतरानपेक्षया लोके अर्थबोधकत्वेन यद्दृष्टं तत्त्वं पदत्वयोग्यत्वमिति। तन्न - मातृभोगीणादौ णत्वानुपपत्तेः, भोगीनेत्यस्य दर्शितपदत्व-
योग्यत्वानपायात्। नहि भोगीन इत्यस्यासाधुत्वं इत्येतावता शाब्दबोधजनकत्वमपैति ।
उक्तंहि भाष्ये “समानायां अर्थावगतौ शब्दैश्चापशब्दैश्च शास्त्रेण धर्मनियमः” इति।
हरिणाप्युक्तं “वाचकत्वाविशेषेऽपि नियमः पुण्यपापयोरिति” । अतः अगत्या पदत्वघटितमेव
सामानपद्यमित्याश्रयणीयं वस्त्वन्तरपरनारायणशब्दस्यापि क्षुभ्नादित्वमङ्गीकृत्य णत्वं वारणीयम्, प्रागुक्तगौरवञ्च सोढव्यम् । इत्थञ्च तत्पुरुषनारायणशब्दस्य शिवपरत्वेऽपि णत्वं
निर्बाधमेवेति वाच्यम् ॥ ४१ ॥