Chapter 1
Verse 1.46
पदत्वयोग्यतायास्सुवचत्वेन तद्घटितसामानपद्यस्यैव उक्तरीत्या समाश्रयणीयतया दशितस्थले णत्वासंभवात् । तथाहि विभक्तीतरानधीनसाध्वधीनशाब्दबोधजनकत्वं । पदत्वयोग्यत्वम् । भवति चेदं गंधर्वगानमित्यादौ गानेत्यंशे, गानमित्यादौ तस्य तादृशशाब्दबोधजनकत्वदर्शनात्। भोगीनेत्यंशे तु नैतत्संभवति भोगीन इत्यस्य असाधुतया तदधीनबोधस्य साध्वधीनत्वविरहादिति ॥ ४२ ॥