Chapter 1
Verse 1.47
नचैवंसति इन्द्रनिभादौ णत्वापत्तिः निभादेरुत्तरपदत्वे एव साधुतया निभ इत्येत- ज्जन्यबोधस्य साध्वधीनत्वविरहेण निभेत्यंशस्य पदत्वयोग्यत्वासंभवात् । अतः पदत्व- घटितमेव सामानपद्यमित्याश्रयणीयं तथासति निभादेः प्रत्ययलक्षणेन पदत्वसंभवात् न दोष इति वाच्यम् ॥ ४३ ॥