Chapter 1
Verse 1.48
निमित्तानधिकरणनिमित्तिमदुत्तरपदाघटितं यन्निमित्ताधिकरणपदं तत्त्वस्यैव सामानपद्यरूपतया विवक्षितत्वेनानुपपत्तिविरहात् निभादेरपि समासचरमावयवत्वरूपो- त्तरपदत्वानपायात् । इत्थंच तत्पुरुषनारायणशब्दे सुबुत्पत्तेः प्राक्समासेऽपि न णत्वसंभवः, दर्शितसामानपद्यविरहात् इति ॥ ४४ ॥