Śrīkoṣa
Chapter 1

Verse 1.5

अत्र शैवाः- “उक्तनारायणशव्दः साधुः व्याकरणाविहितकार्याघटितत्वे सति किञ्चिद्रि-ध्युद्देश्यतावच्छेदकधर्मानाक्रान्तशब्दत्वात् संप्रतिपन्नसाधुशब्दवत् ” अत्र सुबन्तस्यैव नारायणशब्दस्य पक्षतया सुब्विध्युद्देश्यतावच्छेदकप्रातिपदिकमादाय न स्वरूपासिद्धिः । केवलयोगार्थपरे युधिष्ठिर इत्यादौ व्यभिचारवारणाय सत्यन्तनिवेशः । तथासति षत्वस्य व्याकरणाविहितत्वात् न दोषः । केवलप्रातिपदिके व्यभिचारवारणाय विशेष्यम् । नच ! केवलयौगिके दर्शितनारायणशब्दे णत्वस्य व्याकरणाविहिततया सत्यन्तविरहात् स्वरूपा- सिद्धिरिति वाच्यम् । अट्कुप्वाङित्यनेन तत्रापि णत्वविधानात् समासात् सूत्पत्त्या समुदायस्यापि पदत्वेन समानपदे इति सप्तम्यन्तलभ्यस्य निमित्ताधिकरणपदवृत्तित्वस्याप्यक्षतेः । न च नरसंबन्ध्यधिकरणकत्वं शिवे बाधितमिति शङ्क्यम्। नरसंबन्धित्वेन रूपेण शिवाधिकरणभूतस्य शिवलोकादेः ग्रहणसंभवात् नरसंबन्धित्वेन जलमेव उपादेयमिति निर्बन्धे मानाभावात्, जलाधिकरणकत्वस्यापि शिवे संभवाच्चेति वदन्ति ॥१॥