Chapter 1
Verse 1.51
नच चतुष्टयी शब्दानां प्रवृत्तिः जातिशब्दाः, गुणशब्दाः, क्रियाशब्दाः, संज्ञाशब्दाः (चेति) संज्ञोपसर्जनीभूतास्तु न सर्वादय इत्यादावाधुनिकसंज्ञाया एव ग्रहणदर्शनेनात्रापि तथात्वमेव स्वीकरणीयम् । इत्थञ्च नारायणादिशब्देषु णत्वोपपत्तये योगविभाग एव सर्वैराश्रयणीय इति केवलयौगिकस्यापि तस्य णत्वोपपत्तिरिति वाच्यम् ॥ ४७॥