Śrīkoṣa
Toggle theme
Toggle menu
Chapter 1
Verse 1.52
Previous
Next
Original
अकर्तरिचकारके संज्ञायामित्यादाविवात्र संज्ञाशब्दस्य रूढमात्रपरत्वेनैवोपपत्तौ योगविभागाश्रयणस्यानुचितत्वात् । भाष्यानुक्तयोगविभागस्य साधुतानियामकत्वेऽतिप्रसंगात्, पूर्वपदादिति सूत्रभाष्यादिविरोधाच्च ॥ ४८ ॥
Previous Verse
Next Verse