Śrīkoṣa
Chapter 1

Verse 1.54

गौणत्वेनापि संभवदुपपत्तिकक्वाचित्कप्रयोगमात्त्रस्य शक्तिग्राहकत्वे गंगादिपदस्य तीरादावपि शक्तिप्रसंगेन लक्षणोच्छेदापत्तेः । तेष्वदर्शनाधिकरणे उभयत्र प्रयोगादेस्तुल्यत्व एव विनिगमनाविरहात् अनेकशक्तिकल्पनं मानयापि वैषम्ये तत्र विनिगमकसंभवेन
एकत्र शक्तिरन्यत्र लक्षणेत्येव युक्तम् अनेकार्थत्वस्यान्याय्यत्वादिति हि सिद्धान्तितम् । अतः प्रसिद्धिप्राचुर्याभिधानकोशादिना नारायणशब्दस्य भगवति शक्तिः, शिवे तु क्वाचित्कप्रयोगविषये लक्षणैवेति ॥ ५० ॥