Chapter 1
Verse 1.55
नच कूर्मपुराणादिगतनारायणशब्दस्य उक्तरीत्या शिवे लाक्षणिकत्वे तस्यासा- धुत्वापत्तिः संज्ञात्वविरहेण पूर्वपदादित्यनेन णत्वासंभवात्, प्रकारान्तरस्यच प्रागेव निरस्तत्वात्। यदि च संज्ञात्वं नाम रूढिशक्तिनिरूपकत्वमेव । इत्थंच लक्षणया शिवपरस्यापि नारायणशब्दस्य भगवन्निष्ठरूढिशक्तिनिरूपकत्वेन संज्ञात्वानपयात् पूर्वपदादित्यनेनैव णत्वोपपत्तिरित्युच्यते । तदा केवलयोगेन शिवपरत्वेऽपि उक्तरीत्या णत्वसंभवात् सिद्धन्न- स्समीहितम् । अथ रूढ्यर्थबोधपरत्वमेव संज्ञात्वं नतु रूढिशक्तिनिरूपकत्वं तथासति द्रुणसयुधिष्ठिरादीनां केवलयोगेनान्यत्त्रापि साधुताप्रसंगात् । इत्थंच पूर्वपदादित्यस्य केवलयोगेन अन्यपरनारायणशब्देऽपि अप्रवृत्तिरेवेति चेत् । एवंसति लाक्षणिकेप्यप्रवृत्या शिवरूढ्यभ्युपगममन्तरेण कूर्मपुराणादिगतनारायणशब्दस्य साधुत्वानुपपत्त्या तत्र रूढ्य-
भ्युपगम आवश्यक एवेति वाच्यम् ॥ ५१ ॥