Śrīkoṣa
Chapter 1

Verse 1.56

नारायणशब्दस्य भगवत्सदृशे लक्षणायां णत्वोपपत्त्या साधुत्वोपपत्तेः । तत्त्रहि सादृश्यप्रतियोगितया भगवतोऽपि शाब्दबोधे भानात् रूढ्यर्थबोधपरत्वरूपसंज्ञात्वमक्षतमेव । अतएव हि युधिष्ठिरादिशब्दाः सादृश्यमात्रावलंबिनश्शिष्टैः प्रयुज्यते । तस्मात् कूर्मपुराणा-दिगतनारायणशब्दो भगवत्सदृशलाक्षणिक एव । कारणवाक्यगतनारायणशब्दस्य लक्षणया शिवपरत्वं तु मुख्यार्थबाधविरहात् अनपपन्नमिति प्रागेवोक्तम् ॥ ५२ ॥