Chapter 1
Verse 1.58
सर्वत्र सहस्रनामसु नामशब्दस्य प्रातिपदिकमात्रपरतया लाक्षणिकस्यापि तत्त्वानपायात् नामशब्दस्य हि प्रातिपदिकपरत्वं वैयाकरणप्रसिद्धम् । अत एव यानि नामानि गौणानि विख्यातानीत्यत्र विख्यातपदेनैव रूढिसिद्धिरनुग्रहीता भगवद्गुणदर्पणे नतु नामशब्देन ॥ ५४ ॥