Śrīkoṣa
Chapter 1

Verse 1.59

नच कूर्मपुराणे शिवनामनिर्वचनप्रकरणे नाराणामयनं यस्मात् तेन नारायणस्स्मृत इति निर्वचनदर्शनात् तत्पुरुषसमासरूपस्यापि नारायणशब्दस्य शिवे साधुत्वमावश्यकम्। इत्थंच णत्वोपपादकसंज्ञात्वोपपत्तये रूढ्यभ्युपगम आवश्यक एवेति वाच्यम् ॥ ५५ ॥