Śrīkoṣa
Chapter 1

Verse 1.6

औपनिषदास्तु उक्तनारायणशब्दे अट्कुप्वाङित्यनेन णत्वविधानासंभवात् प्रकारान्तरेण णत्वाप्रसक्तेश्च स्वरूपासिद्धिः । तथाहि यदि “ समानपदे” इत्यनेन निमित्ताधिकरणपदवृतित्वरूपमेकपदस्थत्वमुच्यते तदा समानग्रहणवैयर्थ्यापत्तिः, पदे इत्येकवचनविवक्षयैवएकपदस्थत्वलाभात् । अन्यत्र सूत्रे वचनस्य अविवक्षितत्वेऽपि अपदस्थयोः निमित्तनिमित्तिनोः असंभवेन इह पदे इत्यनेन तद्विवक्षाज्ञापनात् । किञ्च रामनामादिषु णत्वप्रसंगः, तत्त्रापि समासात् सूत्पत्त्या निमित्ताधिकरणपदवृत्तित्वसत्त्वात् । अतः अत्र समानमेव यत्पदमिति अवधारणाश्रयणात् सप्तम्यन्तेननिमित्तानधिकरणनिमित्तिमत्पदाघटितवृत्तित्वमेव अभिधीयते । ततश्च रामनामादिषु नामशब्दस्य प्रत्ययलक्षणेन पदत्वात् निमित्तानधिकरण-मित्तिमन्नामपदघटिततया न दोषः । यथा समानमेवेत्यवधारणाश्रयणमात्रेण समानपद- द्वात् निमित्तानधिकरणनिमित्तिमत्पदाघटितन्वलाभः तथा उपपादितमस्मदीयपरमुख चपेटिकायां ।