Śrīkoṣa
Chapter 1

Verse 1.60

लक्ष्यतावच्छेदकप्रदर्शनपरतयापि उपपन्नस्य दर्शितनिर्वचनस्य शक्तिग्राहकत्वा- संभवात्। कथमस्य लक्ष्यतावच्छेदकप्रदर्शनपरत्वमिति चेत् इत्थं - कूर्मपुराणशिवसहस्र- नामादिषु प्रयुक्तस्य नारायणशब्दस्य भगवत्सदृशत्वावच्छिन्ने लक्षणेत्युक्तं तत्र सादृश्यघटकधर्मः कोऽसावित्याकांक्षायां नरसंबन्ध्यधिकरणत्वमिति बोधयितुं दर्शितनिर्वचनं प्रवृत्तमिति। तथाच तावतैव उपपन्नस्य निर्वचनस्य न शिवे नारयणशब्दस्य शक्तिग्राहकत्वं संभवति, अनन्यथासिद्धनिर्वचनस्यैव शक्तिग्राहकत्वात् । अत एव चित्त्राज्याधिकरणे “ आपो वा ऋत्वियमार्छन्निति” पृष्ठशब्दनिर्वचनस्य लक्ष्यतावच्छेदकप्रदर्शनपरत्वमेवेत्युक्तम् । तत्र हि स्तोत्रविशेषनामत्वेन प्रसिद्धस्य पृष्ठशब्दस्य क्वचित् पृष्ठैरुपतिष्ठत इत्यादौ बृहद्रथन्तरवैरूपवैराजशाक्वररैवतसामसु स्तोत्रसाधनेषु लक्षणया प्रयोग इति स्थिते तत्र लक्ष्यतावच्छेदकत्वतात्पर्यविषयधर्माकांक्षायां तत्प्रदर्शनपरतयोपपन्नस्य रथन्तरादिषु अब्वायुसुरतजनितवामदेव्यजन्यत्वरूपपृष्ठशब्दप्रवृत्तिनिमित्तप्रदर्शनपरस्य 'आपोवा ऋत्वियमार्च्छन्नि"त्यादिनिर्वचनस्य न शक्तिग्राहकत्वमिति उपपादितम् ॥ ५६ ॥