Chapter 1
Verse 1.61
न च नाराणाम् अयनं यस्मात् तेन नारायणस्स्मृत इत्यस्य कथं लक्षयता- वच्छेदकप्रदर्शनपरत्वं ईदृशस्थले हि तृतीयापञ्चम्योः स्वप्रकृत्यर्थघटकधर्मावच्छिन्न- विशेष्यकशक्तिज्ञानाधीनत्वमर्थः, "नारायण" इत्यादेः तत्पदजन्यबोधविषयोऽर्थः । तथा च नारनिरूपिताधिकरणत्वघटकधर्मावच्छिन्नविशेष्यकशक्तिज्ञानाधीननारायणशब्दजन्य- बोधविषयत्वस्यैव शिवे लाभात् तस्य योगार्थतावच्छेदकप्रदर्शनपरत्वमेवावश्यकम् । ततश्च केवलयौगिकत्वे व्याकरणाविहितणत्वघटिततया साधुत्वासंभवेन रूढ्यभ्युपगम आवश्यकः उक्तनिर्वचनबलेन वा केवलयौगिकत्वेऽपि साधुत्वमास्ताम् । अतएव तत्पुरुषसमासत्त्वेऽपि पुल्लिङ्गत्वोपपत्तिः लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्येत्युक्तेश्च । यद्यपि एवंसति व्याकरणाविहितकार्याघटितत्वविरहात् हेतोः स्वरूपासिद्धिः। तथापि उक्तनिर्वचनान्यथानुपपत्तिकल्पितणत्वविधायकवचनस्यापि व्याकरणशब्देन विवक्षिततया न दोषः । तथाच केवलयौगिकस्यापि नारायणशब्दस्य साधुत्वं अव्याहतमिति वाच्यम् ॥ ५७ ॥