Śrīkoṣa
Chapter 1

Verse 1.62

यत ईदृशस्थले तृतीयापञ्चमीभ्यां अवच्छिन्नत्वमेव बोध्यते तच्च नारायणादि- शब्दार्थतावच्छेदके नारायणादिशब्दजन्यबोधविषयत्वे अन्वेति । तथाच उक्तनिर्वचनेन नारायणशब्दस्य नारनिरूपिताधिकरणत्वावच्छिन्नविषयताशालिबोधजनकत्वमात्रमेव सिद्ध्यति । तादृशबोधजनकता च रूढ्या, योगेन, लक्षणया वेति प्रमाणान्तरावसेयमेव । तथाच प्रागुक्तरीत्या लक्षणाधीनशाब्दबोधविषयतावच्छेदकरूपलक्ष्यतावच्छेदकप्रदर्शनपरत्वमेव उक्तनिर्वचनस्याकामेनापि स्वीकार्यमिति न यौगिकत्वग्राहकत्वं न वा तदन्यथा-नुपपत्त्या रूढ्यादिकल्पनमिति ।