Śrīkoṣa
Chapter 1

Verse 1.63

यत्तु ईदृशस्थले स्वप्रकृत्यर्थघटकधर्मावच्छिन्नविशेष्यकशक्तिज्ञानाधीनत्वमेव तृतीयाद्यर्थ इति । तन्न तथासति मंचस्थत्वात् मंच इत्युक्तः तात्स्थ्यात् ताच्छब्द्यं तात्स्थ्येन ताच्छब्द्यमित्याद्यनुपपत्तिप्रसंगात् । यदि च मंचस्थत्वघटक- मंचत्वावच्छिन्नविशेष्यकशक्तिज्ञानाधीनत्वं लक्षणाग्रहजन्यबोधेऽपि अक्षतम्, लक्षणाग्रहस्य शक्तिज्ञानजन्यमंचोपस्थित्यधीनत्वात् । तथाच नोक्तस्थले अनुपपत्तिरित्युच्यते । तदा नारायणशब्दस्य नारनिरूपिताधिकरणताश्रयभगवत्सदृशलाक्षणिकत्वेऽपि तज्जन्यबोधस्य नारनिरूपिताधिकरणत्वघटक नारत्वाद्यवच्छिन्नविशेष्यकशक्तिज्ञानजन्यतदुपस्थित्यधीन लक्षणाग्रहजन्यतया तादृशशक्तिज्ञानाधीनत्वाक्षतेः नोक्तनिर्वचनोपपत्त्या तस्य प्रागुक्तरीत्या लक्ष्यतावच्छेदकप्रदर्शनपरत्वमेव युक्तंम्। किञ्च ईदुशस्थले तृतीयापंचम्योः स्वप्रकृत्यर्थघटकधर्मावच्छिन्नविशेष्यकशक्तिज्ञानाधीनत्वार्थकत्वे नाराणामयनं यस्मात् तेन नारस्स्मृतः तेन अयनं स्मृतमित्यादयोऽपि व्यवहारास्समंजसास्स्युः । नारनिरूपिताधिकरणत्वघटकनारत्वावच्छिन्नविशेष्यकशक्तिज्ञानाधीनत्वस्य तादृशाधि-
करणत्वावच्छिन्नविशेष्यकशक्तिज्ञानाधीनत्वस्य च तत्तत्पदजन्यबोधे अक्षतेः । यदिच तद्भटका यावन्तो धर्माः तत्तदवच्छिन्नविशेष्यकशक्तिज्ञानाधीनत्वमेव तत्र तृतीयापञ्चमीभ्यां बोध्यत इति न उक्तदोषावकाश इत्युच्यते । तदा “ शेषः परार्थत्वादि ” त्यादेरनुपपत्तिः, शेषपदरूढिज्ञानाधीनस्य परोद्देश्यककृतिकारकत्वेन विहितत्वरूपपरार्थत्वावच्छिन्नबोधस्य तादृशपरार्थत्वघटकतत्तद्धर्मावच्छिन्नविशेष्यकशक्तिज्ञानाधीनत्वात् । किंबहुना एवंसति नाराणामयनम् इत्यादि निर्वचनस्यैव असांगत्यम् । तत्पुरुषे पूर्वपदस्य विभक्त्यर्थविशिष्टे तादृशविभत्क्यर्थ एव वा लक्षणायाः निषादस्थपत्यधिकरणे सिद्धान्तिततया योगाधीन- नारायणशब्दजन्यबोधस्यापि नारसंबन्ध्यधिकरणत्वघटितसंबन्धांशे शक्तिज्ञानानधीनत्वात् । तस्मात् ईदृशस्थले अवच्छिन्नत्वमेव तृतीयापञ्चमीभ्यां बोध्यत इति सर्वैरपि समाश्रयणीयमिति उक्तनिर्वचनस्य लक्ष्यतावच्छेदकप्रदर्शनपरत्वमेवेति ॥ ५८ ॥