Chapter 1
Verse 1.64
नच दर्शितनिर्वचनात् प्राक् अजातत्वादजस्स्मृत इत्यादिदृश्यते उत्तरत्र च भगवान् सर्वविज्ञानादिति, तयोरुभयोश्च योगार्थपरत्वं निर्विवादं । ततश्च तत्प्रायपाठात् अस्यापि तथात्वमेवावश्यकम्। उक्तं हि उपांशुयाजाधिकरणे "प्रायोवचनात्" इति सूत्रे “शिरो वा एतद्यज्ञस्य यदाग्नेयः हृदयमुपांशुयाजः पादावग्नीषोमीय" इति प्रधानप्रायपाठेन उपांशुयाजस्य प्राधान्यावगत्या "विष्णुरुपांशुयष्टव्योऽजामित्वाय, प्रजापतिरुपांशुयष्टव्योऽजामित्वाय, अग्नीषोमावुपांशुयष्टव्यावजामित्वायेति” वाक्यानां यागविधिपरत्वे तद्वाधप्रसंगात् न तेषां तत्परत्वं किन्तूपांशुयाजमन्तरायजतीति वाक्यस्यैव तथात्वमिति ।