Śrīkoṣa
Chapter 1

Verse 1.65

अथ कथं विष्ण्वादिवाक्यानां यागविधिपरत्वे प्राधान्यावगतिबाध इति चेत् इत्थं - विष्ण्वादिवाक्यविहितयागत्त्रयमध्ये अग्नीषोमदेवत्यस्यैव “ तावब्रूतामग्नीषोमावाज्यस्यैव नावुपांशुपौर्णमास्यां यजन्नि”तिवाक्येन कालसंबन्धात् विद्वद्वाक्याधिकारवाक्याभ्यामपि तस्यैव ग्रहणेन तस्यैव प्राधान्यसिद्धिः इतरयोस्तु फलवदफलन्यायेनाङ्गत्वमेव स्यादिति प्रायपाठावगतमुपांशुयाजमात्रप्राधान्यं बाध्यत एवेति । तस्मात् यौगिकप्रायपाठेन यौगिकत्वमेव आश्रयणीयमिति वाच्यम् ॥ ५९ ॥