Śrīkoṣa
Chapter 1

Verse 1.66

अपेक्षितविधिप्राबल्येन उक्तनिर्वचनस्य लक्ष्यतावच्छेदकप्रदर्शनपरताया एवा वश्यकत्वात्। तथाहि प्रागुक्तरीत्या क्वाचित्कस्य शिवविषयनारायणशब्दस्य लाक्षणिकत्वे न्यायबलान्निर्णीते तत्र लक्ष्यतावच्छेदकापेक्षायां तत्प्रतिपादनपरत्वमेव उक्तनिर्वचनस्या-वश्यमाश्रयणीयं नत्वनपेक्षितयौगिकत्वप्रदर्शनपरत्वं "अपेक्षितविधिः ज्यायाननपेक्षित-चोदनादि "तिन्यायात् । अतएव हि - "वार्तघ्नी पूर्णमासेनूच्येते" "वृधन्वती अमावास्यायामि”त्यस्य लिंगक्रमाभ्यां आज्यभागाङ्गत्वेन अवगतानां वार्त्रघ्नवृधन्वन्मन्त्राणां अपेक्षितव्यवस्थाबोधकत्वमेव नानपेक्षितविद्वद्वाक्यविहितकर्माङ्गताबोधकत्वमिति प्रतिपादितं द्वितीये । एवंविधाभ्यर्हितविधिपरत्वसंभवे हि प्रायपाठोप्यनादरणीय एव । अतएव हि समिधादिप्रयाजानां आरादुपकारकत्वेऽपि तत्प्रायपठितस्य स्वाहाकारप्रयाजस्य यक्ष्यमाणदेवतासंस्कारकतया सन्निपातित्वमेवेति स्थापितं दशमे । तस्मान्नोक्तनिर्वचनस्य यौगिकत्वप्रदर्शनद्वारा रूढिग्राहकत्वं यौगिकत्वेऽपि साधुताग्राहकत्वं वा किंतु लाक्षणिकताग्राहकत्वमेव पृष्ठशब्दनिर्वचनवदिति सिद्धम् ।