Śrīkoṣa
Chapter 1

Verse 1.67

किंबहुना “ नहि नारायणादीनां नाम्नामन्यत्र संभवः ऋते नारायणादीनि नामानि पुरुषोत्तमः प्रादादन्यत्र भगवान् राजेवर्ते स्वकं पुरमि”त्यादिवामनपुराणादिवचनैः नारायणशब्दस्य शिवे रूढ्यभावबोधनात् प्रागुक्तनिर्वचनस्य लाक्षणिकत्वमेवाकामेनापि स्वीकार्यं। किञ्च उक्तनिर्वचनस्य कूर्मपुराणे भगवत्कर्तृकशिवस्तोत्रान्तर्गतत्वेनैव प्रतिपादनात् तदंशस्य शिवमाहात्म्यपरतया तामसत्त्वेनाप्रामाण्यमेव " अग्नेश्शिवस्य माहात्म्यं तामसेषु प्रकीर्तितं" इति मात्स्यवचनात् । तस्मात् सर्वथा उक्तनिर्वचनात् नारायणशब्दस्य शिवे रूढिः यौगिकत्वेऽपि साधुत्वं वा न सिद्ध्यतीति । तथाच नारमयनं यस्येत्यादिव्युत्पत्त्या शिवपरस्य नारायणशब्दस्य व्याकरणाविहितकार्यघटिततया असाधुत्वमेवेति सर्वं समञ्जसम् । ॥ 60 ॥