Chapter 1
Verse 1.1
श्रीः
श्रीमत्प्रणतार्तिहरवरदपरब्रह्मणे नमः
श्रीमते रघुनन्दनपरब्रह्मणे नमः
श्रीपरमुखचपेटिका
रघुवंशदुग्धजलधौ जातं सन्तानमाश्रये कमपि ।
अतितुङ्गादपि यस्मात् विनतैरग्यं फलं करग्राह्यम् ॥
सुरभितसमस्तलोकं संयमिवरचरणचन्दनं सेवे ।
छायां श्रयन् यदीयां स्थाणुमपर्णाश्रयं लघूकुरुते ॥
प्राचीनवाचानिचयांचलार्थमाचान्तमोचामदहृद्यवाचम् ।
दुर्वारगर्वान् कुदृशोतिखर्वान् कुर्वाणमीडे कुलदैवतं नः ॥
श्री श्रीवासयतीन्दुः विलसतु सर्वज्ञशेखरो हृदये ।
यत्पादसङ्गलेशादपसरति तमः प्रकाशते सर्वम् ॥
लक्ष्मीकुमारतातयदेशिकवंशाब्धिशीतकिरणस्य ।
वेङ्कटगुरोस्तनूजः कृष्णः परमुखचपेटिकां कुरुते ॥