Śrīkoṣa
Chapter 1

Verse 1.2

यदुक्तं नारायणशब्दः शिवपरः शिववृत्तिधर्मावच्छिन्नप्रतिपादकत्वात् यथा शिवशब्द इति । तत्र किमिदं शिवपरत्वम् । शिववाचकत्वं वा, शिवबोधौपयिकाकांक्षाशालित्वं वा, शिवे साधुत्वं वा शिवबोधौपयिकतात्पर्यवत्त्वं वा, अन्यद्वा किञ्चित् । नाद्यः, सिद्धसाधनात् । अयनशब्दस्याधिकरणसामान्यवाचिनः शिववाचकत्वाक्षतेः । नारशब्दोत्तरत्वविशिष्टा- यनशब्दस्यायनशब्दानतिरेकात् नायायणशब्दान्तर्गतस्यायणशब्दस्य णकारघटितत्वेपि तस्याधिकरणवाचकत्वे विवादविरहात्। अन्यथा भगवति योगार्थप्रतीत्यनुपपत्तिप्रसङ्गात् ।