Śrīkoṣa
Chapter 1

Verse 1.4

यदि च लक्षणाग्रहानधीनशिववृत्तिधर्मप्रकारकशाब्दबोधौपयिकतात्पर्यविषयता- वच्छेदकतापर्याप्त्यनुयोगितावच्छेदकत्वमेव हेतुरित्यङ्गीक्रियते तदा स्वरूपासिद्धिः । नारायणशब्दजन्यनाराधिकरणत्वावच्छिन्नबोधस्यापि लक्षणाग्रहाधीनत्वात्। बहुव्रीहौ चरमपदस्यान्यपदार्थलाक्षणिकत्वनियमात् ॥