Chapter 1
Verse 1.5
अथ स्वारसिकलक्षणाग्रहानधीनत्वमेव बोधविशेषणं । बहुव्रीहिघटकचरमपदलक्षणा तु आनुशासनिकतया निरूढा । तथा च न स्वरूपासिद्ध्यवकाश इति चेत्- एवं सति प्रवीणादिशब्दनिष्ठनिरूढलक्षणानिरूपकतावच्छेदक- तापर्याप्त्यनुयोगितावच्छेदकधर्मे व्यभिचारः । स्वारसिकलक्षणाग्रहानधीनशिववृत्ति- समर्थत्वप्रकारकबोधघटितहेतुमति तादृशधर्मे दर्शितसाध्यविरहात् प्रवीणादिशब्दानां समर्थत्वावच्छिन्ने निरूढलक्षणैवेत्यस्यालङ्कारविदां स्पष्टत्वात्। एवं केवलयोगेन शिवपरसंहर्त्रादिशब्दघटकवर्णसमुदायत्वेऽपि व्यभिचारो बोध्यः । दर्शितशब्दस्य शिवे रूढ्यभावेन उक्तसमुदायत्वे साध्याभावसत्त्वात् ।