Śrīkoṣa
Chapter 1

Verse 1.6

द्वितीयेऽपि सिद्धसाधनमेव । नारायणशब्देनापि शक्तिभ्रमादिना शिवबोधोत्पत्त्या तादृशबोधौपयिकाकांक्षाशालित्वस्य तत्र संप्रतिपन्नत्वात्। शक्तिभ्रमाद्यनधीनत्वनिवेशेऽपितद्दोषतादवस्थ्यम्। रूढिप्रतिसन्धानविरहदशायां शिवे तात्पर्यग्रहसत्त्वे केवलयोगेन शिवबोधस्यानुभविकत्वात् ।