Śrīkoṣa
Chapter 1

Verse 1.7

अथ नारायणशब्दात् केवलयोगेन शिवबोधोत्पत्तिस्वीकारे सिद्धं नस्समीहितम् । कारणवाक्यघटकनारायणशब्दादपि तादृशबोधसंभवादिति चेन्न - तादृशबोधसंभवेऽपि तस्य प्रमात्वानुपपत्त्या शिवस्य जगत्कारणत्वासिद्धेः । नच श्रुतिजन्यस्य तादृशबोधस्य कथं प्रमात्वानुपपत्तिरिति वाच्यम् । ईश्वरतात्पर्यप्रमाधीनस्यैव श्रुतिजन्यबोधस्य प्रमात्वनियमात्
नारायणशब्दस्य केवलयोगेन शिवबोधपरत्वे साधुत्वानुपपत्त्या तत्र तादृशतात्पर्यासंभवात् ।