Chapter 1
Verse 1.8
यत्तु - शक्तिभ्रमाद्यनधीनशाब्दबोधौपयिकाकांक्षावत्त्वमेव साधुत्वम्, अन्यस्य दुर्वचत्वात्। इत्थं च केवलयोगेन शिवबोधपरस्यापि नारायणशब्दस्य साधुत्वमस्त्येवेति । तन्न साधुत्वस्य ईदृशत्वे केवलयोगेनान्यपरगुणसयुधिष्ठिरादिशब्दानामपि साधुताप्रसङ्गात् । नचेष्टापत्तिः । तथासति तेषां साधुत्वाभावबोधनपरस्य तत्तत्सूत्रेषु संज्ञादिग्रहणस्य असामञ्जस्य- प्रसङ्गात् । अतो वक्ष्यमाणं जात्यादिरूपमेव साधुत्वमिति दर्शितशब्दस्यासाधुत्वं उपपद्यत एव । तस्मान्नारायणशब्दस्य केवलयोगेन शिवपरत्वे साधुत्वं वा कारणवाक्यघटकनारायणशब्दस्य शिवबोधौपयिकतात्पर्यवत्त्वमेव वा यावन्न सिद्ध्यति तावन्न परेषामिष्टसिद्धिरिति बोध्यम् ।