Chapter 1
Verse 1.10
यदिच स्वारसिकलक्षणामन्तरा शिवे साधुत्वमिह साधनीयम् । कूर्मपुराणादि- गतनारायणशब्दस्य शिवे लाक्षणिकताया एव सिद्धान्तिभिरभ्युपगतत्वेन न सिद्धसाधना- वकाशः। ईदृशसाधुत्वसिद्धौ च कारणवाक्यघटकनारायणशब्दस्य शिवे तात्पर्यसंभवात् समीहितसिद्धिः। लक्षणामन्तरा शिवे साधुत्वं च लक्षणाग्रहानधीनशिवविषयकबोधेच्छा- धीनोच्चारणप्रयुक्तं साधुत्वम्। साधुत्वस्य हि " एकरशब्दः सम्यक् ज्ञातः सुष्ठु प्रयुक्तः स्वर्गे लोके कामधुग्भवतीति” श्रुतिसिद्धपुण्यविशेषजनकतावच्छेदकधर्मरूपस्य जातिरूपत्वे अखण्डोपाधिरूपत्वे वा यस्मिन्नर्थे यस्य शब्दस्य साधुत्वं प्रमाणसिद्धं तदर्थबोधेच्छाधीनतच्छब्दोच्चारण साधुत्वविशिष्टतच्छब्दं प्रति कारणमित्यङ्गीकरणीयम् । अन्यथा निर्धनतुरगाटि
बोधेच्छया उच्चरितानामश्वास्वादिशब्दानां साधुताप्रसङ्गात् । तथा च उच्चारणविशेषजन्यता- वच्छेदकस्य जात्यादिरूपस्य साधुत्वस्य तादृशोच्चारणप्रयुक्तत्वमक्षतम् ॥