Śrīkoṣa
Chapter 1

Verse 1.11

शक्तिविशेषरूपत्वे तत्तच्छब्दनिष्ठतादृशशक्तिविशेष प्रति दर्शितोच्चारणस्य कारणतया सुतरां तदुपपत्तिरित्यालोच्यते तदा युधिष्ठिरादिशब्दे व्यभिचारः।
नारायणशब्दयोगार्थतावच्छेदकस्येव एतद्योगार्थतावच्छेदकस्यापि शिवसाधारण्यानपायेन दर्शितहेतुमति तत्र लक्षणामन्तरा शिवे साधुत्वायोगेन दर्शितसाध्यविरहात् । न च शिववृत्तिधर्मावच्छिन्नप्रतिपादकत्वं स्वारसिकलक्षणाग्रहानधीनशिववृत्तिधर्मप्रकारकशाब्दबोधौपयिकेश्वरतात्पर्यवत्त्वम् । तथा च न व्यभिचारः । स्थैर्यस्य पलायनाद्यभावरूपत्वेऽपि अभावस्याधिकरणात्मकतया प्रतिव्यक्तिभेदात् युधिष्ठिरादिशब्दे रूढ्यर्थविशेष्यकयोगार्थबोध एव ईश्वरतात्पर्येण तादृशबोधे शिववृत्तिधर्मस्याप्रकारत्वात् इति वाच्यम् । तथा सति सन्दिग्धासिद्धेः पक्षे हेतोरुभयसंप्रतिपन्नत्वविरहात् । नारायणशब्दयोगार्थतावच्छेदकस्यापि प्रतिव्यक्तिभिन्नत्वेन शिववृत्तिधर्मप्रकारकबोधौपयिकेश्वरतात्पर्यवत्त्वस्य नारायणशब्दे सिद्धान्तिभिरनभ्युपगमात् । एवं शिवान्यद्रव्यपदे शिवसंयुक्तपदे च व्यभिचारः । तयोः शिवे साधुत्वविरहात् । शिववृत्तिद्रव्यत्वसंयोगाद्यवच्छिन्नप्रतिपादकत्वाच्च । यदि च शिववृत्तितावच्छेदकतापर्याप्त्यधिकरणधर्मपर्याप्तावच्छेदकताकप्रकारता- शालिबोधौपयिकेश्वरतात्पर्यवत्त्वमेव हेतुक्रियते तथाच नोक्तदोषावसरः । नारायणशब्द जन्यभगवद्विशेष्यकबोधप्रकारतावच्छेदकस्य नाराधिकरणकत्व (त्व) स्य शिववृत्तिता- वच्छेदकत्वाक्षतेः । शिवान्यद्रव्यत्वत्वशिवप्रतियोगिकत्वविशिष्टसंयोगत्वयोः शिववृत्तितानवच्छेदकत्वाच्चेत्युच्यते तदा युधिष्ठिरादिशब्दे व्यभिचारः । युद्धस्थैर्यत्वादि- रूपशिववृत्तितावच्छेदकावच्छिन्नप्रकारताशालिबोधौपयिकेश्वरतात्पर्यवत्त्वस्य तत्र सत्त्वात् । साध्यविरहस्य च प्रागेवोक्तत्वात् ।