Śrīkoṣa
Chapter 1

Verse 1.8

नच उत्तरपदत्वे चेति वार्तिकेन अयनशब्दस्य प्रत्ययलक्षणनिषेधात् उक्तसामान-
पद्योपपत्त्या णत्वोपपत्तिः । तथाहि तत्र उतरपदशब्दः समासचरमावयवपरः तस्य तत्र रूढत्वात्, सतिसप्तम्या च सामानाधिकरण्यरूपं वैशिष्ट्यम् बोध्यते गुणकर्मान्यत्वे सति सत्त्वादित्यादौ तथा दर्शनात् । तच्च सामानाधिकरण्यम् इह आश्रयत्वोद्देश्यत्वोभयघटितमिति उत्तरपदत्वाश्रयवर्णोद्देश्यको योऽयमपदादिविधिः तस्मिन् कर्तव्ये प्रत्ययलक्षणम् नेति वार्तिकार्थः । उत्तरपदत्वस्य समुदायपर्याप्तत्वेपि तद्भटकवर्णानाम् आश्रयतया तदधिकरणत्वम् अक्षतम् । ततश्च प्रकृते अयनपदघटकनकारोद्देश्यकणत्वविधेस्तादृशतया प्रत्ययलक्षणविरहेण णत्वोपपत्तिः। रामनामादिषु णत्वविधेः पदादिविधितया प्रत्ययलक्षणसत्त्वात् न दोषः, गन्धर्वगानादौ णत्वापत्तिस्तु क्षुभ्नादित्वाङ्गीकारेण वारणीयः तस्य आकृतिगणत्वादिति । इत्थञ्च औपनिषदोक्तहेतोः स्वरूपासिद्धिः अस्मदुक्तहेतोश्च पक्षे सत्त्वम् इति वाच्यम् ॥३॥